पुस्तक परिचय
संस्कृतस्यात्र राष्ट्रे किटूशी महती परम्परा आसीद् इति बोधयितुम् आगमप्रातिशाख्य व्याकरणदृष्टया शिक्षाशास्त्दृष्टवा च वर्णविषये प्रथमाध्याये किञ्चिद् विचारितम्। सद्ग्रन्थ- दनिन ज्ञातुं शक्यते यदद्य संस्कृतस्य कियान् ह्रासो जातः। आगमिकाना, वैष्णवादिनां, प्रातिशाख्यानां, वैयाकरणानां च सम्प्रदायो लुप्यते इति दु:खास्पदम्। कस्यापि इदानीन्तने साधूच्चारणं नास्ति।
द्वितीयाध्याये शब्दविषये विचारितम्। परा, पश्यन्ती, मध्यमा, वैखरीति वाचः चत्वारो भेदा भवन्ति। तत्र पराया व्यवहारातीतत्वं प्रतिपादितम्। आगमादिदृष्ट्या व्याकरणदृष्ट्या च पश्यन्त्यादिषु सर्वत्र शब्दार्थसम्बन्धानां परस्पराध्यासाद् न सर्वशब्दानां सर्वार्थवाचकत्वमस्ति। परं शब्दा प्रत्यायानां प्रविभागको याद सर्वभूतरूतज्ञानस्य सम्भवत्वप्रतिपादनमेवात्र द्वितीयाध्याये विषयस्य वैशिष्ट्यम्।
पाणिनीये व्याकरणे प्रवृत्ता: टिघुभादी: अनर्थकाः संज्ञा विहाय वृद्धिगुणादीनाम् अन्वर्थत्वप्रतिपादनेन कथञ्चित् तत्राऽनादि शक्तिरपि साधयितुं शक्यते इति तृतीयाध्याय प्रयोजनम्।
चतुर्थेऽध्याये शब्दार्थसम्बन्धान् विचार्य अविद्याविषयः व्याकरणदिशा अद्वैतवादश्च मोक्षोपकारिणी विषय विवेचितौ इति कृत्वा वेदान्तादिशास्त्रवद् अस्यापि व्याकरणशास्त्रस्य तुयें पुरुषार्थे परमपरिणतिः सिद्धा भवतीति मुमुक्षुभिरपि उपास्यमिदं भवति पाणिनीयं व्याकरणमिति शम्।





Reviews
There are no reviews yet.