प्राक्कथनम्
विश्वस्य दर्शनचिन्तनसाहित्यसमीक्षणपरम्परासु भारतीयव्याख्यापद्धतीनां वरीवर्ति अनन्यसामान्यो विशेष इति न संशीतिः। यथा समस्तभारतीयविचारपद्धतीनां धर्मदर्शनसम्प्रदायानां च मूलं सन्ति भगवन्तो वेदास्तथैव भारतीयव्याख्यापरम्पराणामपि मूलं वेदेष्वेव विद्यते। तथाहि मन्त्रब्राह्मणयोर्वेदनामधेयमिति वेदलक्षणेन येषां ब्राह्मणग्रन्थानां वेदत्वं वेदितव्यं भवति, ते सन्ति मन्त्राणां व्याख्यानभूताः। व्याख्यानपद्धतीनामपि मानदण्डा: ब्राह्मणग्रन्थैर्विनिर्मिताः। तथाहि – हेतुः निर्वचनं निन्दा परक्रिया पुराकल्प इत्याद्या दश विधयो ब्राह्मणग्रन्थैः वेदव्याख्यासु प्रकटीकृता: विनियोजिताश्च। अथ यास्केन निघण्टुं निबद्ध्य न केवलं भाषातत्त्वदृशा वेदव्याख्यामार्ग आविष्कृतः, ऐतिहासिको विधिः आख्यानविधिरित्याद्या नैके विधयस्तेन निरुक्ते सूचिता: अनूचानैः प्रयोजिताः।
एकं सद्विप्रा बहुधा वदन्तीति स्वयमेवाहुः मन्त्रद्रष्टार ऋषयः। तदनुसारेण एकस्यैव वेदस्य एकस्यैव च सूक्तस्य अथवा एकस्यापि मन्त्रस्य विधीयन्ते विविधं व्याख्याः। यथा प्रत्येकं देवताया आधिभौतिकमाधिदैविकमाध्यात्मिकं चेति त्रिविधं रूपं तथैव अस्यां सृष्टौ प्रत्येकं पदार्थः त्रिविधं समुल्लसति। मन्त्राणामपि बहुस्तरात्मकानि व्याख्यानानि त्रिधा विभक्तं एकमपि भुवनमण्डलं त्रिविधैरथैः परामृशन्ति। सायणमहीधरोद्गीथप्रभृतयो भाष्यकारा: वेदव्याख्यानां नानात्मकत्वं प्रथयन्ति। एतेन व्याख्यासु परस्परं विरोधो वैभिन्यं वेत्यपि न मन्तव्यम्। यथा एक एवाग्नि: गार्हपत्याहवनीयादिरूपेषु विभाति तथैव वेदस्य तात्त्विकतया एकरूपमपि तत्त्वं विविधविधाभिर्विशदीक्रियते व्याख्यातृभिः।
अनुक्रमणिका :
Reviews
There are no reviews yet.