श्रीश्रीस्वामिवेङ्कटेश्वरपदारविन्दपवित्रीकृतेऽस्मिन् तिरुपतिक्षेत्रे विराजमानेऽत्र राष्ट्रियसंस्कृतविद्यापीठ ज्ञानमन्दिरे ज्योतिर्निबन्धमञ्जरी प्राकाश्यं नीयते ज्योतिषशास्त्रस्य गणितफलितशाखयोः
साधरणविषयाणां परिचायकाः निबन्धाः अस्मिन् ग्रथिताः । ज्योतिषशास्त्रप्रविविक्षवोऽत्राधिकारिणः सिद्धान्तज्योतिषस्य सिद्धान्ताधिकारः, कालमानं, भूपरिधिः, ग्रहकक्षा:, वारक्रमः, अक्षांश:, दिङ्निर्णयः, ग्रहगणितम्, अहर्गणलग्नानयनं, पञ्चाङ्गस्वरूपम् इत्यादिविषयास्तथा जातकपत्र विचार:, अरिष्टविचार:, कुजदोषनिरूपणं, मेलापकविचार:, राजयोगादिविचारः, ग्रहनक्षत्रादीनां स्वरूपम् इत्यादयः फलितविषया यथा अत्र निरूपितास्तथैव प्रश्नशास्त्रशकुनमुहूर्त्तादयोऽपि विषया अत्र सप्रपञ्चं विवृताः । येन छात्राणां कृते एतत् पुस्तकं भारतीय ज्योतिषस्य परिचायकं चानुसन्धानकार्यार्थम् उत्साहं जनयिष्यति । तथा चानुसन्धानकार्यार्थम् उत्साहं जनयिष्यति ।
Reviews
There are no reviews yet.