
धात्वधिकारियम सामान्यमङ्गकार्यम : Dhatvadhikariyam Samanyamangakaryam
₹500.00 – ₹1,625.00Price range: ₹500.00 through ₹1,625.00

| Author-Editor/लेखक-संपादक | Pushpa Dikshit |
| Language/भाषा | Sanskrit |
| Edition/संस्करण | 2017 |
| Publisher/प्रकाशक | Pratibha Prakashan |
| Pages/पृष्ठ | 290 |
| Binding Style/बंधन शैली | Hard Cover & Paperback |
| ISBN | 9789385538070 |
SKU: N/A
Categories: Sanskrit, Sanskrit Grammar
Tags: Hindi, Indology, Pushpa Dikshit, Sanskrit, Sanskrit Grammar, vyakaran
पुस्तक परिचय
अनन्तो वर्तते शब्दराशिर्लौकिको वैदिकश्च । तस्य प्रतिपत्तौ प्रतिपदपाठमनभ्युपायं मत्वा भगवता पाणिनिना यत् सामान्यविशेषावलक्षणं कृतं तदेवाष्टाध्यायी । अत्र चतस्रः प्रक्रियाः सन्ति । धातूदेशकप्रक्रिया, सुबन्तप्रक्रिया, तद्धितप्रक्रिया, स्वरप्रक्रिया च । निखिलेऽस्मिन् विश्वे प्रसिद्धेषु सिद्धान्तकौमुद्यादिषु प्रक्रियाग्रन्थेषु, अन्येषु च नामिकेष्वाख्यातिकादिषु चाश्रितः प्रक्रियाक्रमः पाणिनेः सर्वथाऽसम्मतोऽवैज्ञानिकश्च वर्तते । अयं नास्ति लौकिकवैदिक-शब्दानां सिद्धेः स उपायः, यः खलु भगवता पाणिनिनोपदिष्टो, भगवता पतञ्जलिना च साक्षात्कृतः । अस्मादेव हेतोर्द्वादशभिर्वर्षैरपि न जायते प्रक्रियायाः सम्यग्दर्शनम् । भगवता पाणिनिना स्वीयेऽष्टाध्यायीनाम्नि ग्रन्थे यः पन्थाः प्रकाशितस्तत्र एकस्मिन् शब्दे सिद्धे सति तत्सरूपाः सर्वे शब्दा गणितीयविधिना स्वयमेव सिद्धिं लभन्ते, साधुत्वं च प्राप्नुवन्ति । स च प्रकाशितः पन्थाः सिद्धान्तकौमुद्यादिभिः प्रक्रियाग्रन्थैर्घनान्धकारे निक्षिप्तः । अतो मयास्यां पौष्प्यां पाणिनीयप्रक्रियायां शब्दसिद्धेः सामान्यविशेषवान् स एवोपायः प्रकटीकृतो यो भगवता पाणिनिनाऽनन्तशब्दराशेरुत्पादनाय साक्षादुपदिष्टः । अनेनाल्पेन यत्नेन महान्तोऽपि शब्दौघा अल्पीयसा कालेन प्रतिपद्यन्ते । अयमेवास्ति शब्दसिद्धेर्लघुतमः पन्थाः, यो मया साक्षात्कृत्य राष्ट्रभाषायां ‘अष्टाध्यायी सहज बोध’ इति नाम्ना अष्टसु भागेषु, अथ च ‘पौष्पी नव्यसिद्धान्तकौमुदी’ इति नाम्ना देवभाषायां अष्टसु भागेषु निर्दिष्टः ।
धातोः प्रत्यये सति प्रक्रियाया भवन्ति सप्त विभागाः । एषां विभागानां विज्ञानेन शब्दाः स्वयमेव सिध्यन्ति । अङ्गकार्यात् प्राक् पञ्चोपाज्ञानां ज्ञानमपेक्षितं भवति । तत्र सार्वधातुके प्रत्यये परतोऽङ्गकार्यात् पूर्वं प्रत्ययादेशः, प्रकृत्यादेशः, विकरणम्, अतिदेशः, द्वित्वाभ्यासकार्यम्, इत्येतानि पञ्चोपाज्ञानि भवन्ति, आर्धधातुके च प्रत्यये परतः प्रत्ययादेशः, प्रकृत्यादेशः, इडागमः, अतिदेशः, द्वित्वाभ्यासकार्यम्, इत्येतानि । एतेषां सम्यग्विज्ञानं भवति यस्य, स एव प्रक्रियाब्धौ तरितुं जानाति । स एवाङ्गकार्यं निर्णेतुं प्रभवति । अङ्गकार्यानन्तरं सन्धिः यत्कृते प्रत्ययो नापेक्ष्यते । इत्थञ्च पञ्चोपाज्ञकार्यम्, अङ्गकार्यम्, सन्धिरित्याहत्य साङ्गपदी भवतीयं प्रक्रिया । अस्याः प्रक्रियायाः प्रतिपादनमस्मिन् ग्रन्थे मयाष्टाध्याय्यनुसारेण कृतम् ।
अनेन पाणिनीयक्रमेणाधीयते चेत् न केवलं सर्वं खलु धातूदेशकप्रक्रिया मासैनैकेनाधिगता भवति, अपि तु पाणिनेः प्रक्रियाविज्ञानमपि बुद्धौ स्थिरायत इति नास्त्यत्र संशीतिलेशोऽपीति शम् ।
| Bind Type | Hardbound, Paperback |
|---|
Only logged in customers who have purchased this product may leave a review.
Related products
Reference Work
₹150.00 – ₹300.00Price range: ₹150.00 through ₹300.00
This product has multiple variants. The options may be chosen on the product page
Modern Sanskrit Literature
₹150.00 – ₹320.00Price range: ₹150.00 through ₹320.00
This product has multiple variants. The options may be chosen on the product page
Reference Work
Ancient Indian History
₹130.00 – ₹350.00Price range: ₹130.00 through ₹350.00
This product has multiple variants. The options may be chosen on the product page
Modern Sanskrit Literature
अष्टाध्यायी सहजबोध पञ्चम भाग – Ashtadhyayi Sahajbodh (Part 5) PaperBack
₹400.00
General Studies
₹400.00 – ₹1,000.00Price range: ₹400.00 through ₹1,000.00
This product has multiple variants. The options may be chosen on the product page










Reviews
There are no reviews yet.